सूत्रम्
विभाषा सृजिदृषोः॥ ७।२।६५
काशिका-वृत्तिः
विभाषा सृजिदृशोः ७।२।६५
सृजि दृशि इत्येतयोः थलि विभाषा इडागमो न भवति। ससृअष्ठ, ससर्जिथ। दद्रष्ठ, ददर्शिथ।
न्यासः
विभाषा सृजिद्दशोः। , ७।२।६५
"सुज विसर्गे" (धा।पा।१४१४),
"दृशिर्? प्रेक्षणे" (धा।पा।९८८)--अनयोः क्रादिनियमादिटि नित्यं प्राप्ते विकल्पार्थ वचनम्()। "सरुआष्ठ, दद्रष्ठ" इति। व्रश्चादिना
८।२।३६ षत्वम्(), "सृजिदृशोर्झल्यमकिति"
६।१।५७ इत्वम्()॥
बाल-मनोरमा
विभाषा सृजिदृशोः २३७, ७।२।६५
तत्राह-- विभाषा सृजि। पञ्चम्यर्थे षष्ठी। "गमेरिडित्यतत इडिति, "()चस्तास्व दित्यतस्थलीति चानुवर्तते। तदाह-- आभ्यामिति।
तत्त्व-बोधिनी
विभाषा सृजिदृशोः २०९, ७।२।६५
क्रादिनियमान्नित्ये प्राप्ते विभाषेयम्।